द्वादशः पाठः
कर्णस्य दानवीरता

(अयं पाठः भासरचितस्य कर्णभारनामकस्य रूपकस्य भागविशेषः। अस्य रूपकस्य कथानकं महाभारतात् गृहीतम्। महाभारतयुद्धे कुन्तीपुत्रः कर्णः कौरवपक्षतः युद्धं करोति। कर्णस्य शरीरेण संबद्ध कवचं कुण्डले च तस्य रक्षते स्तः। यावत् कवचं कुण्डले च कर्णस्य शरीरे वर्तेते तावत् न कोऽपि कर्ण हन्तुं प्रभवति। अतएव अर्जुनस्य सहायतार्थम् इन्दः छलपूर्वकं कर्णस्य दानवीरस्य शरीरात् कवचं कुण्डले च गृह्णाति। कर्णः समोदम् अङ्गभूतं कवचं कुण्डले च ददाति। भासस्य त्रयोदश नाटकानि लभ्यन्ते। तेषु कर्णभारम् अतिसरलम् अभिनेयं च वर्तते।)
अर्थ-यह पाठ भासरचित कर्णभार नामक रूपक का भाग विशेष है। इस रूपक का कथानक महाभारत से लिया गया है। महाभारत युद्ध में कुन्तीपुत्र कर्ण कौरव पक्ष से युद्ध करता है। कर्ण के शरीर से संबंद्ध कवच और कुण्डल में उसकी रक्षा है। जब तक कर्ण के शरीर में कवच और कुण्डल है तब तक कर्ण को कोई भी नहीं मार सकता। इसलिए अर्जुन की सहायता में इन्द्र छलपूर्वक दानवीर कर्ण के शरीर से कवच और कुण्डल ग्रहण करते हैं। कर्ण प्रसन्नता के साथ शरीर में स्थित कवच और कण्डल को दे देता है। भास के तेरह नाटक प्राप्त होते हैं। उनमें कर्णभार अत्यन्त ही सरल एवं अभिनय योग्य है।
(ततः प्रविशति ब्राह्मणरूपेण शक्रः)
(इसके बाद ब्राह्मण रूप से शक्र (इन्द्र) प्रवेश करता है। )
शक्रः- भो मेघाः, सूर्येणैव निवर्त्य गच्छन्तु भवन्तः। (कर्णमुपगम्य) भोः कर्ण ! महत्तरां भिक्षा याचे।
अर्थ- अरे मेघ, सूर्य के द्वारा ही आप सब जाकर जायें। (कर्ण के पास पहुँचकर) अरे कर्ण ! महान मिक्षा की याचना करता हूँ।
कर्णः- दृढ़ प्रीतोऽस्मि भगवन् ! कर्णो भवन्तमहमेष नमस्करोमि।
अर्थ- मैं बहुत प्रसन्न हूँ भगवन ! मैं कर्ण आपको नमस्कार करता हूँ।
शक्रः- (आत्मगतम्) किं नु खलु मया वक्व्यं, यदि दीर्घायुर्भवेति वक्ष्ये दीर्घायुर्भविष्यति। यदि न वक्ष्ये मूढ़ इति मां परिभवति। तस्मादुभयं परिहत्य किं नु खलु वक्ष्यामि। भवतु . दृष्टम्। (प्रकाशम्) भो कर्ण ! सूर्य इव, चन्द्र इव, हिमवान् इव, सागर इव तिष्ठतु ते यशः।
अर्थ- (स्वयं से) मेरे द्वारा इस समय क्या कहा जाना चाहिये, यदि दीर्घायु हो ऐसा कहता हूँ तो दीर्घायु होगा यदि नहीं कहूँगा तो मूढ़ में मेरी गणना होगी। भलीभाँति देखते हुए (आवाज देते हुए) अरे कर्ण सूर्य के समान, चन्द्र के समान, हिमालय के समान और सागर के समान तुम्हारा यश रहे (होवे)।
कर्णः- भगवन् ! किं न वक्तव्यं दीर्घायुर्भवेति। अथवा एतदेन शोभनम्। कुतः -
धर्मो हि यत्नैः पुरुषेण साध्यो भुजङ्गजिह्वाचपला नृपश्रियः।
तस्मात्प्रजापालनमात्रबुद्धया हतेषु गुणा धरन्ते॥
भगवन्, किमिच्छसि। किमहं ददामि।

अर्थ- भगवन् ! दीर्घायु हो ऐसा क्यों नहीं कहते। अथवा यह ही अच्छा है। धर्म यत्न पूर्वक पुरुष के द्वारा साध्य है राजा की लक्ष्मी सांप के जिह्वा के तरह चंचल होती है। इसलिये प्रजा पालन मात्र बुद्धि से भरे हुएं में भी गुण पाये जाते हैं। भगवान्, क्या चाहते हो। मैं क्या दू
शक्रः- महत्तरां भिक्षां याचे।
अर्थ- महान भिक्षा की याचना करता हूँ।
कर्णः- महत्तरां भिक्षां भवते प्रदास्ये। सालङ्कारं गोसहस्रम् ददामि।
अर्थ- महान भिक्षा मैं आपको देता हूँ। अलंकरणों के साथ एक हजार गाये देता हूँ।
शक्रः- गोसहस्रमिति। मुहूर्तकं क्षीरं पिबामि। नेच्छामि कर्ण ! नेच्छामि।
अर्थ- एक हजार गायें। कुछ क्षणों तक मैं दूध पिउँगा। नहीं चाहता हूँ कर्ण नहीं चाहता हूँ।
कर्णः- किं नेच्छति भवान्। इदमपि श्रूयताम्। बहुसहस्रं वाजिनां ते ददामि।
अर्थ- क्या नहीं चाहते है आप । यह भी सुनें। हजारों घोड़ों को तुम्हें देता हूँ।
शक्रः- अश्वमिति। मुहूर्तकम् आरोहामि। नेच्छामि कर्ण! नेच्छामि।
अर्थ- घोड़ा ऐसा । कुछ समय तक ही चलूंगा। नहीं चाहता हूँ कर्ण नहीं चाहता हूँ।
कर्णः- किं नेच्छति भगवान्। अन्यदपि श्रूयताम्। वारणानामनेकं वृन्दमपि ते ददामि।
अर्थ- आप क्या नहीं चाहते हैं। यह भी सुने। हाथियों के अनेक समूहों को भी तुम्हें देता हूँ।
शक्रः- राजमिति। मुहूर्तकम् आरोहामि। नेच्छामि कर्ण! नेच्छामि।
अर्थ- राजन ऐसा। थोड़े समय तक ही चढूँगा। नहीं चाहता हूँ कर्ण नहीं चाहता हूँ।
कर्णः- किं नेच्छति भवान्। अन्यदपि श्रूयताम्, अपर्याप्तं कनकं ददामि।
अर्थ- क्या आप नहीं चाहते हैं ? दूसरा भी सुनें, पर्याप्त स्वर्ण देता हूँ।
शक्रः- गृहीत्वा गच्छामि। (किंचिद गत्वा) नेच्छामि कर्ण! नेच्छामि।
अर्थ- ग्रहण करके जाता हूँ। (थोड़ा जाकर) नहीं चाहता हूँ कर्ण नहीं चाहता हूँ।
कर्णः- तेन हि जित्वा पृथिवीं ददामि।
अर्थ- तो कर्ण जीत कर पृथ्वी देता हूँ
शक्रः- पृथिव्या किं करिष्यामि।
अर्थ- पृथ्वी का क्या करूँगा।
कर्णः- तेन ह्यग्निष्टोमफलं कार्यम्।
अर्थ- तो यज्ञ का फल देता हूँ।
कर्णः- तेन हि मच्छिरो ददामि।
अर्थ- तो अपना शिर देता हूँ।
शक्रः- अविहा अविहा।
अर्थ- ऐसा मत करो मत करो।
कर्णः- न भेतव्यं न भेतव्यम्। प्रसीदतु भवान्। अन्यदपि श्रूयताम।
अङ्ग सहैव जनितं मम देहरक्षा
देवासुरैपि न भेद्यमिदं सहस्रैः।
देयं तथापि कवचं सह कुण्डलाभ्यां
प्रीत्या मया भगवते रूचितं यदि स्यात्॥

अर्थ- नहीं डरें नहीं डरें। आप प्रसन्न हो। दूसरा भी सने। अंगों के साथ ही मेरे शरीर की रक्षा के लिये उत्पन्न कवच के साथ कुण्डल को देवताओं एवं असुरों के द्वारा हजारों वार से भी नहीं काटा जा सकता है यदि भगवन् को यह भी चाहिये तो मेरे द्वारा प्रेम पूर्वक दिया जा सकता है।
शक्रः- (सहर्षम्) ददातु, ददातु।
अर्थ- (हर्ष के साथ) दो-दो।
कर्णः- (आत्मगतम्) एष एवास्य कामः। किं नु खल्वनेककपटबुद्धेः कृष्णस्योपायः। सोऽपि भवतु। धिगयुक्तमनुशोचितम्। नास्ति संशयः। (प्रकाशम्) गृह्यताम्।
अर्थ- (स्वयं से) यह ही इनकी इच्छा थी। क्या यह अनेक कपट कृष्ण की बुद्धि का उपाय है। वह भी होवे। यह सोचना धिक्कार युक्त है। संशय नहीं है। (आवाज देते हुए) ग्रहण करें।
शल्यः- अङ्गराज ! न दातव्यं न दातव्यम्।
अर्थ- अंगराज नहीं देना चाहिये नहीं देना चाहिये।
कर्णः- शल्यराज ! अलमलं वारयितुम् । पश्य -
शिक्षा क्षयं गच्छति कालपर्ययातु।
सुबद्धमूला निपतन्ति पादपाः।
जलं जलस्थानगतं च शुष्यति ।
हुतं च दत्तं च तथैव तिष्ठति।
तस्मात् गृह्यताम् (निकृत्य ददाति)।

अर्थ- शल्यराज ! मत रोकें। देखें शिक्षा समय के पश्चात नष्ट हो जाती है, अच्छे जड़ से युक्त वृक्ष भी गिर जाते हैं। जल जल के स्थान से चला जाता है और सूख जाता है लेकिन जो दी गई वस्तु है वह वैसी ही रहती है। इसलिये ग्रहण करें (निकाल कर देता है)।
शब्दार्थाः
निवर्त्य - गत्वा - जाकर
प्रीतः - प्रसन्नः - खुश
महत्तराम् - अधिकतराम - बड़ी
वक्ष्ये - कथयिष्मानि - कहूँगा
परिहत्य - परिहारं कृत्वा - हटाकर
सदृश - जैसा - समान
भुजङ्गः - सर्पः - सांप
क्षीरम् - दुग्धम् - दूध
वाजिन् - अश्वः - घोड़ा
वारणः - गजः - हाथी
कनकम् - स्वर्णम् - सोना
सह - साकम् - साथ
असुरः - दैत्य: - राक्षस
कामः - इच्छा - इच्छा
पादपाः - वृक्षाः - पेड
निकृत्य - खण्डत्विा - काटकर
मूढः - मूर्खः - मूर्ख
समूहम् - वृन्दम् - समूह
दत्तम् - दानम् - दान
व्याकरणम्
सन्धिविच्छेदः

सूर्येणैव - सूर्येण + एव
कर्णमुपगम्य - कर्णम् + उपगम्य
प्रीतोऽस्मि - प्रीतः + अस्मि
भवन्तमहमेष - भवन्तम् + अहम् + एष
नमस्करोमि - नमः + करोमि
दीर्घायुर्भवेति - दीर्घ + आयुः + भव + इति
दीर्घायुर्भविष्यति - दीर्घ + आयुः + भविष्यति
तस्मादुभयम् - तस्मात् + उभयम्
एतदेव - एतत् + एव
तस्मात्प्रजापालनमात्रबुद्धया - तस्मात् + प्रजापालनमात्रबुद्धया
किमिच्छसि - किम् + इच्छसि
किमहम् - किम् + अहम्
सालङ्कारम् - स + अलङ्कारम्
गोसहस्रमिति - गोसहस्रम् + इति
नेच्छामि - न + इच्छामि
नेच्छति - न + इच्छति
इदमपि - इदम् + अपि
अन्यदपि - अन्यत् + अपि
वारणानामनेकम् - वारणानाम + अनेकम
किचिद - किम् + चित् :
ह्यग्निष्टोमफलम् - हि + अग्निष्टोमफलम्
मच्छिरः - मत् + शिरः
सहैव - सह + एव
देवासुरैरपि - देव + असुरैः + अपि
भेद्यमिदम् - भेद्यम् + इदम्
तथापि - तथा + अपि
एवास्य - एव + अस्य
खल्वनेककपटबुद्धेः - खलु + अनेककपटबुद्धेः
कृष्णस्योपायः - कृष्णस्य + उपायः
सोऽपि - सः + अपि
धिगयुक्तमनुशोचितम् - धिक् + अयुक्तम् + अनुशोचितम्
तथैव - तथा + एव
प्रकृतिप्रत्ययविभागः
उपगम्य - उप + गम् + ल्यप्
वक्तव्यम् - वच् + तव्यत्
परिहत्य - परि + ह + ल्यप्
निवर्त्य - नि + वृत् + णिच् + ल्यप्
गृहीत्वा - ग्रह् + त्वा (क्त्वा)
गत्वा - गम् + त्वा (क्त्वा)
जित्वा - जि + त्वा (क्त्वा)
कार्यम् - कृ + यत्
भेतव्यम् - भी + तव्यत्
वारयितुम् - वृ + णिच् + तुमुन्
निकृत्य - नि + कृन्त् + ल्यप्
समासः
दीर्घायु: - दीर्घम् आयुः यस्य सः, बहुब्रीहिः
अग्निष्टोमफलम् -अग्निष्टोमस्य (यज्ञस्य) फलम्, षष्ठी तत्पुरुषः
मच्छिरः - मम शिरः, षष्ठी तत्पुरुषः
गोसहस्रम् - गवां सहस्रम्, षष्ठी तत्पुरुषः
सालङ्कारम् - अलङकारेण सहितम्, सहार्थकबहुब्रीहिः
भुजङ्गजिह्वा - भुजङ्गस्य जिह्वा, षष्ठी तत्पुरुषः
जिह्वाचपला - जिह्वा इव चपला, अपमानपूर्वपद कर्मधारयः
देहरक्षा - देहस्य रक्षा, षष्ठी तत्पुरुषः
कालपर्ययात् - कालस्य पर्ययः (परिवर्तनम्) तस्मात्, षष्ठी तत्पुरुषः
सुबुद्धमूलाः - सुबुद्धं मूलं येषां ते, बहुब्रीहिः
जलस्थानगतम् - जलस्य स्थानं जलस्थानम्, षष्ठी तत्पुरुषः,तद्गतम्, द्वितीया तत्पुरुषः।
सहर्षम् - हर्षेण सहितम् (सहार्थक बहुब्रीहिः) यथा स्यात् तथा (क्रियाविशेषणम्)।
आत्मगतम् - आत्मानां गतम्, द्वितीया तत्पुरुषः।
शल्यराजः - शल्यानां राजा, षष्ठी तत्पुरुषः।
अभ्यासः मौखिकः
1. अधोलिखितानां पदानां पर्यायवाचिपदानि वदत -
मूढः, वाजिन्, वारणः, क्षीरम्, भुजङ्गः, कनकम्
उत्तर- मूढः-मूर्खः
वाजिन-अश्वः
वारण:-हस्ति
क्षीरम्-दुग्धं
भुजङ्गः-सर्प
कनकम्-स्वर्णम्
2. अधोलिखितानां पदानां प्रकृति-प्रत्यय-विभागं वदत -
वक्तव्यम्, उपगम्य, इच्छामि, श्रूयताम् वाजिनाम्
उत्तर- वक्तव्यम् - वच् + तव्यत्
उपगम्य - उप + गम् + ल्यप
3. विपरीतार्थकान् शब्दान् वदत -
दीर्घायुः, प्रीतः, दत्वा, यशः, प्रविशति
उत्तर- दीर्घायुः-अल्पायुः
प्रीतः-घृणा
दत्वा-गृहीत्वा
यशः-अपयशः
प्रविशति-निकसति।
4. सन्धिविच्छेदं, कुरुत -
सूर्येणैव, एतदेव, प्रीतोऽस्मि, कर्णमुपगम्य, तस्मादुभयम्, नेच्छामि
उत्तर- सूर्येणैव - सूर्येण + एव
एतदेव - एतद + एव
प्रीतोऽस्मि - प्रीतः + अस्मि
कर्णमुपगम्य - कर्णम् + उपगम्य
तस्मादुभयम् - तस्मात् + उभयम्
नेच्छामि - न + इच्छामि।
अभ्यासः लिखितः
1. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत -
(क) ततः ब्राह्मणरूपेण कः प्रविशति ?
उत्तर- ततः ब्राह्मणरूपेण शक्रः प्रविशति।
(ख) कर्णः प्रथमं किं दातुम् इच्छति स्म ?
उत्तर- कर्णः प्रथमं गो दातुम् इच्छति स्म।
(ग) कालपर्ययात् का क्षयं गच्छति ?
उत्तर- कालपर्ययात् शिक्षा क्षयं गच्छति।
(घ) कर्णः कस्य देशस्य राजा आसीत् ?
उत्तर- कर्णः अंग देशस्य राजा आसीत्।
(ङ) किं तथैव तिष्ठति ?
उत्तर- हुतं च दत्तं च तथैव तिष्ठति।
2. निम्नलिखितेषु वाक्येषु रेखाङ्कितपदानां स्थाने कोष्ठात् उचितरूपम् आदाय प्रश्ननिर्माणं कुरूत-
(क) ततः प्रविशति ब्राह्मणरूपेण शक्रः। (कः / का)
उत्तर- ततः प्रविशति कः शक्रः?
(ख) महत्तरां भिक्षां याचे। (किं / काम्)
उत्तर- महतरां किम् याचे ?
(ग) मुहूर्तकं क्षीरं पिबामि। (कम् / किम्)
उत्तर- मुहूर्तकं किम् पिबामि ?
(घ) सुबद्धमूलाः पादपाः निपतन्ति। (कः / के)
उत्तर- सुबद्धमूला: के निपतन्ति ?
(ङ) जलस्थानगतं जलं शुष्यति। (का / किम्)
उत्तर- जलस्थानगतं किम् शुष्यति ?
3. अधोलिखितानाम् अव्ययपदानां सहायतया रिक्तस्थानानि पूरयत -
च, एव, अपि, यदि, इव
(क) .................. न वक्ष्ये मूढ इति मां परिभवति ।
उत्तर- यदि
(ख) एष ................ अस्य कामः ।
उत्तर- एव
(ग) सूर्य ............... तिष्ठतु ते यशः ।
उत्तर- इव
(घ) इदं देवासुरैः ................ न भेद्यम् ।
उत्तर- अपि
(ङ) जलं जलस्थानगतं .............. शुष्यति ।
उत्तर- च
4. सन्धिः सन्धिविच्छेदं वा कुरुत -
(क) मच्छिरो
(ख) दीर्घायुर्भवेति
(ग) हि + अग्निष्टोमफलम्
(घ) अन्यत् + अपि
(ङ) कृष्णस्योपायः
(च) सः + अपि
(छ) सहैव
(ज) धिक् + अयुक्तम् + अनुशोचितम्
उत्तर- 
(क) मच्छिरो - मत् + शिरः
(ख) दीर्घायुर्भवेति - दीर्घायुः + भव + इति
(ग) हि + अग्निष्टोमफलम् - हयग्निष्टोमफलम्
(घ) अन्यत् + अपि - अन्यदपि
(ङ) कृष्णस्योपायः - कृष्णस्य + उपायः ।
(च) सः + अपि - सोऽपि
(छ) सहैव - सह + एव
(ज) धिक् + अयुक्तम् + अनुशोचितम् - धिगयुक्तमनुशोचितम्
5. अधोलिखितानां पदानां प्रकृति-प्रत्यय-विभागं कुरूत -
गृहीत्वा, दातव्यम्, वारयितुम्, जित्वा, परिहृत्य
उत्तर-  गृहीत्वा - ग्रह + क्त्वा
दातव्यम् - दा + तव्यत
वारयितुम् - वृ+ विच + तुमुन
जित्वा - जि + क्त्वा
परिहृत्य - परि + ह + ल्यप
6. अधोलिखितानां पदानां स्ववाक्येषु संस्कृतभाषायां प्रयोगं कुरुत -
कर्णः, क्षीरम्, अश्वः, करिष्यामि, इच्छसि :
उत्तर-  कर्णः - कर्ण दानवीरः आसीत।
क्षीरम् - रामः क्षीरम् पिवति।
अश्व: - अश्वः तीवं धावति।
करिष्यामि - अहं भोजनं करिष्यामि।
इच्छसि - त्वम् किम् इच्छसि ?
7. अधोलिखितपदेषु मूलशब्दं विभक्तिं वचनं च लिखत -
पद - मूलशब्दः - विभक्तिः - वचनम्
यथा - तेन तत् - तृतीया एकवचनम्
1. पृथिव्याः
2. सुरैः
3. कृष्णस्य -
4. देहेषु -
5. वृक्षात् -
6. पादपाः -
7. जलम् -
8. भिक्षाम् -
9. पुरुषेण -
10. धर्मः -
उत्तर- 
पद - मूलशब्दः - विभक्तिः - वचनम्
1. पृथिव्याः - पृथ्वी -षष्टी - एकवचनं
2. सुरैः - सुरः - तृतीया. - बहुवचनं
3. कृष्णस्य - कृष्णः - षष्टी - एकवचनं
4. देहेषु - देह - सप्तमी - बहुवचनं
5. वृक्षात् - वृक्षः - पंचमी - एकवचनं
6. पादपाः - पादपः - प्रथमा - बहुवचनं
7. जलम् - जलं - प्रथमा - एकवचनं
8. भिक्षाम् - भिक्षा - द्वितीया - एकवचनं
9. पुरुषेण - पुरुषः - तृतीया - एकवचनं
10. धर्मः - धर्मः - पथमा - एकवचनं
8. 'क' स्तम्भे प्रदत्तानां पदानां 'ख' स्तम्भे लिखितपदैः सह समुचितं मेलनं कुरूत
क ----------------- ख
(क) गोसहस्रम् -- पादपाः
(ख) अश्वम् -- दानवीरः
(ग) कर्णः -- आरोहणम्
(घ) सुबद्धमूलाः -- क्षीरम्
(ङ) महत्तराम् -- ब्राह्मणवेशधारी
(च) शक्रः -- भिक्षाम्
उत्तर- 
क ----------ख
(क) गोसहस्रम् - क्षीरम
(ख) अश्वम् - आरोहणम्
(ग) कर्णः - दानवीरः
(घ) सुबद्धमूला: - पादपाः
(ङ) महत्तराम् - भिक्षामा
(च) शक्रः - ब्राह्मणवेशधारी
9. अधोलिखितानि रेखाङ्कितपदानि बहुवचने परिवर्तयत -
उदाहरण - एकवचने - तस्मै फलं ददाति।
बहुवचने - तेभ्यः फलं ददाति।
(क) इदम् अपि श्रूयताम्।
उत्तर- इमानि अपि श्रूयताम्।
(ख) कनकं गृहीत्वा गच्छामि।
उत्तर- कनकानि गृहीत्वा गच्छामि।
(ग) सः कार्य करोति।
उत्तर- सः कार्याणि करोति।
(घ) किं नु खलु मया वक्तव्यम्।
उत्तर- कि नु खलु अस्माभिः वक्तव्यम्।
(ङ) इदं पुरुषस्य कार्यम्।
उत्तर- इदं पुरुषाणाम् कार्यम्।
10. स्तम्भद्वये लिखितानां विपरीतार्थकशब्दानां मेलनं कुरूत -
क----------------ख
(क) महत्तराम् - अल्पायुः
(ख) प्रीतः - दाता
(ग) याचकः - दुःखितः
(घ) दीर्घायुः - लघुत्तराम्
(ङ) मूढः - अपयशः
(च) यशः - विद्वान्
(छ) गत्वा - नास्ति
(ज) अस्ति - आगत्य
उत्तर- 
क--------------ख
(क) महत्तराम् - लघुत्तराम्
(ख) प्रीतः - दुःखितः
(ग) याचकः - दाता
(घ) दीर्घायुः - अल्पायुः
(ङ) मूढः - विद्वान्
(च) यशः - अपयशः
(छ) गत्वा - आगत्य
(ज) अस्ति - नास्ति
11. निम्नलिखितेषु पदेषु प्रयुक्तां विभक्तिं लिखत -
अङ्गौः, प्रीत्मा, अस्य, संशयः, पृथित्वया, देहेषु, गजम्।
उत्तर-
अङ्गौः-प्रथमा, द्वितीया
प्रीत्मा-तृतीया
अस्य-षष्टी
संशयः-प्रथमा
पृथिव्यया-तृतीया
देहेषु-सप्तमी
गजम्-द्वितीया