त्रयोविंशतिः पाठः
 क्रियताम् एतत्

1. यदि किमपि करणीयम् इति इच्छा तर्हि परोपकारः क्रियताम् ।
शब्दार्थ-किमपि = कुछ भी। करणीयम् = करने योग्य। तर्हि = तो। परोपकारः = दूसरों की मदद । क्रियताम् = करें।
अर्थ-1. यदि कुछ भी करने की इच्छा हो तो लोगों का उपकार करना चाहिए।
 2. यदि किमपि पालनीयम् इति इच्छा तर्हि धर्मः पाल्यताम् ।
शब्दार्थ-पाल्यताम् = पालनं करें।
अर्थ- 2. यदि कुछ भी पालने की इच्छा हो तो अपने धर्म का पालन करना चाहिए।
 3. यदि किमपि वक्तव्यम् इति इच्छा तर्हि सत्यम् उच्यताम्।
शब्दार्थ-वक्तव्यम् = बोलने योग्य। उच्यताम् = बोलें ।
अर्थ- 3. यदि कुछ भी बोलने की इच्छा हो तो सत्यवचन बोलना चाहिए।
 4. यदि सङ्गः करणीयः इति इच्छा तर्हि सज्जनानां सङ्गः क्रियताम् ।
शब्दार्थ-सज्जनानां = सज्जनों का । क्रियताम् = करें ।
अर्थ-4. यदि संगति करने की इच्छा हो तो सज्जनों की संगति करनी चाहिए।
 5. यदि व्यसने इच्छा अस्ति तर्हि दानव्यसनं पाल्यताम्।
शब्दार्थ-व्यसने = आदत । दानव्यसनं = दान देना सीखें।
अर्थ- 5. यदि कोई आदत डालने की इच्छा हो तो दान देने की आदत डालनी चाहिए।
 6. यदि किमपि ग्रहीतव्यम् इति इच्छा सज्जनानां गुणाः गृह्यन्ताम् ।
शब्दार्थ-ग्रहीतव्यम् = ग्रहण करने की।
अर्थ- 6. यदि कुछ भी लेने की इच्छा हो तो सज्जनों का गुण ग्रहण करना चाहिए।
 7. यदि लोभः कोऽपि आस्थेयः तर्हि सद्गुणेषु लोभः स्थाप्यताम् ।
अर्थ-7. यदि किसी चीज का लोभ हो तो सद्गुणों के प्रति लोभ करना चाहिए।
 8. यदि निन्दां विना स्थातुं न शक्यते तर्हि स्वदोषाः निन्द्यन्ताम् ।
शब्दार्थ-स्थातुं = रहने के लिए। स्वदोषः = अपने दुर्गुणों की। निन्द्यन्ताम् = निंदा करें ।
अर्थ-8. यदि निंदा के बिना रहना मुश्किल हो तो अपने दोषों या दुर्गुणों की निंदा करनी चाहिए।
 9. यदि कोपे तीवेच्छा तर्हि कोपविषये एव कुप्यताम् ।। 
शब्दार्थ-कोप = गुस्सा, क्रोध ।
अर्थ-9.यदि अतिक्रोध करने की इच्छा हो तो क्रोध के कारणों पर क्रोध करना चाहिए।
 10. यदि कस्माच्चित् दूरं गन्तव्यम् तर्हि परिग्रहात् दूरे स्थीयताम् ।
शब्दार्थ-कस्माच्चित् = किसी से। परिग्रहात् = चुराना, छीनना ।
अर्थ-10. यदि किसी से दूर रहने की इच्छा हो तो घूस (चोरी) लेने की भावना का त्याग करना चाहिए।
 11. यदि किमपि द्रष्टव्यम् इति इच्छा तर्हि आत्मा एव दृश्यताम् ।
अर्थ- 11. यदि कुछ भी देखने की इच्छा हो तो अपने-आपको देखना चाहिए।
12. यदि कोऽपि शत्रुभावेन द्रष्टव्यः तर्हि रागद्वेषौ शत्रुभावेन दृश्येताम् ।
शब्दार्थ-रागद्वेषौ = प्रेम-ईर्ष्या ।
अर्थ-12. यदि किसी को शत्रु के समान देखना हो तो राग-द्वेष को शत्रु के समान देखना चाहिए।
 13. यदि भेतव्यं तर्हि स्वस्य कुकृत्येभ्यः भीयताम्।
शब्दार्थ-कुकृत्येभ्यः = कुकर्मों से।
अर्थ- 13. यदि डरना हो तो अपने कुकर्मों से डरना चाहिए।

अभ्यासः
 प्रश्न एवं उनके उत्तर

 प्रश्न 1. अस्य पाठस्य किं प्रयोजनम् अस्ति ?
उत्तर-अस्य पाठस्य प्रयोजनं अस्ति यत् जनैः किं किं करणीयम् वा अकरणीयं अस्ति, तस्य सम्यक ज्ञानम् वर्तते।
 प्रश्न 2. जनैः किं करणीयम्, पालनीयं वक्तव्यं च ?
उत्तर-जनैः परोपकारं सज्जनानां संगति करणीयम्, सत्यं वक्तव्यम् तथा दानं धर्म च पालनीयम् अस्ति।
प्रश्न 3. केषां संगः करणीयः।
उत्तर-सज्जनानां संगः करणीयः।