पञ्चमः पाठः
संसारमोहः

एकदा भगवान् नृसिंहः स्वस्य प्रियं भक्तं प्रहलादम् अवदत् - ' - किमपि वरं याचस्व ' इति ।
शब्दार्थ-एकदा = एकबार । स्वस्य = अपने। अवदत् = बोला, कहा। किमपि = कोई भी। वरं = वरदान । याचस्व = माँगो।
अर्थ-एकबार भगवान् नृसिंह ने अपने प्रिय भक्त प्रह्लाद को कहा—कोई भी वरदान माँगो।

तदा प्रहलादः उक्तवान् - " भगवन् ! संसारस्य एतान् दीनदुःखिनः जीवान् त्यक्त्वा अहम् एकाकी मुक्तः भवितुं न इच्छामि । कृपया भवान् एतान् सर्वान् अपि जीवान् स्वीकृत्य वैकुण्ठं प्रति गमनाय अनुमतिं ददातु " इति ।
शब्दार्थ- उक्तवान् = बोला । जीवान् = जीवों को। त्यक्त्वा = छोड़कर । एकाकी = अकेले। भवितुं = होना । सर्वान् = सबको । अपि = भी। स्वीकृत्य = स्वीकार करके। गमनाय = जाने के लिए। अनुमतिं = आदेश। ददातु = दें।
अर्थ-तब प्रह्लाद ने (भगवान से) बोला- "भगवन्! संसार के इन दीन-दुखी प्राणियों को छोड़कर अकेले मोक्ष प्राप्त करना नहीं चाहता हूँ। कृपा करके इन सारे प्राणियों को भी बैकुण्ठ प्राप्त करने की आज्ञा दे।''

भगवान् अवदत् - ये गन्तुं न इच्छन्ति तान् सर्वान् अपि जीवान् बलपूर्वकं वैकुण्ठं कथं नयेत् भवान् ?
शब्दार्थ- ये = जो। गन्तुम् = जाने को, जाने के लिए। इच्छन्ति = चाहते हैं। तान् = उनको । कथं = क्यों । नयेत् = ले जा रहे हैं । भवान् = आप।
अर्थ-(तब) भगवान ने कहा-जो (बैकुण्ठ) जाना नहीं चाहते हैं उन सब जीवों को आप बैकुण्ठ क्यों ले जा रहे हैं ?

प्रहलादः अवदत् - ईदृशः को भविष्यति यो वैकुण्ठं गन्तुं न इच्छेत् ? तर्हि त्वमेव सर्वान् पृष्ट्वा ये वैकुण्ठ गन्तुम् इच्छन्ति तान् स्वीकृत्य आगच्छ इति असूचयत् देवः । ततः प्रहलादः प्रच्छनार्थं गतवान् ।
शब्दार्थ- ईदृशः = ऐसा। को = कौन । यो = जो । त्वमेव = तुम्ही । पृष्ट्वा = पूछकर । आगच्छ = आ जाओ। ततः = तब । प्रच्छनार्थम् = पूछने के लिए। गतवान् = गया।
अर्थ- प्रह्लाद बोला-ऐसा कौन होगा, जो बैकुण्ठ जाना नहीं चाहता हो? तो आप ही सारे प्राणियों से पूछकर सूचित करें जो बैकुण्ठ जाना चाहते है, उन्हें साथ लेकर आ जाइए। इसके बाद प्रह्लाद पूछने के लिए चल दिया।

ब्राह्मणाः उक्तवन्त : - इदानीं यजमानस्य यागः करणीयः अस्ति । किञ्च पुत्रः गुरुकुलं गतवान् अस्ति , यदा सः गुरुकुलतः आगमिष्यति तदा विवाहः कारणीयः अस्ति । अतः वयम् इदानीं वैकुण्ठं गन्तुं न अभिलषामः इति ।
शब्दार्थ-उक्तवन्तः = कहा। तु = तो । इदानीं = इस समय । यागः = यज्ञ । करणीयः अस्ति = कराना है। किञ्च = किसी का । गुरुकुलतः = गुरुकुल से । आगमिष्यति = आएगा। अभिलषामः = चाहता हूँ।
अर्थ- ब्राह्मणों ने कहा-इस समय (मुझे) यजमान का यज्ञ कराना है और किसी का बेटा गुरुकुल गया हुआ है, जब वह गुरुकुल से वापस होगा, तब उसका विवाह कराना है। इसलिए हमलोग इस समय बैकुण्ठ जाना नहीं चाहते हैं।

परिव्राजकाः उक्तवन्त : - वयं तु मुक्ताः एव स्मः । किन्तु शिष्याणां तत्वज्ञानं न जातम् अस्ति । अतः ते उपदेष्टव्या सन्ति अस्माभिः इति । एवम् एव राजानः राज्यस्य विषये , वणिजः वाणिज्यविषये , सेवकाः गृहविषये च उक्तवन्तः । पशु - पक्षिणः अपि स्वस्य परिवारपोषणे रताः आसन् । एवं सर्वे अपि प्राणिनः प्रहलादेन सह वैकुण्ठं प्रति गमनं तिरस्कृतवन्तः । यद्यपि वैकुण्ठं सर्वेऽपि इच्छन्ति स्म एव, तथापि झटिति गमनाय कोऽपि उद्युक्तः न आसीत् ।
शब्दार्थ-परिव्राजकाः = संन्यासी। शिष्याणां = शिष्यों का। उपदेष्टव्या = उपदेश देना है । एवम् = इस प्रकार । राजानः = राजा लोग । वणिजः = बनिया, व्यापारी। सेवकाः = नौकर । परिवारपोषणे = परिवार के भरण-पोषण में । रताः = व्यस्त । प्रह्लादेन सह = प्रह्लाद के साथ । तिरस्कृतवन्त = अस्वीकार कर दिया । सर्वेऽपि = सब कोई । तथापि = फिर भी। उद्युक्तः = उत्सुक ।
अर्थ- संन्यासी बोला-हम लोग तो मुक्त ही हैं, किंतु शिष्यों को आत्मतत्व का ज्ञान नहीं हुआ है इसलिए उन्हें हमसे उपदेश लेना है अर्थात् शिष्यो को तत्वज्ञान का उपदेश देना है। इसी प्रकार राजा लोग अपने राज्य के विषय में, व्यापारी अपने व्यापार के विषय में तथा सेवक अपने घर के विषय में कहा। पशु-पक्षी अपने परिवार के भरण-पोषण में व्यस्त थे । इस प्रकार सारे प्राणियों प्रह्लाद के साथ बैकुण्ठ चलने का प्रस्ताव अस्वीकार कर दिया। यद्यपि सभी बैकुण्ठ जाना चाहते तो थे, लेकिन इतनी जल्दीबाजी में कोई भी बैकुण्ठ जाने को उत्सुक (तैयार) नहीं था।

प्रह्लादः अन्ते एकस्य वराहस्य समीपं गतवान् । तदा वराहः अपृच्छत् - वैकुण्ठे किम् अस्ति ? इति । प्रह्लादः अवदत् - तत्र अनन्तः आनन्दः अस्ति इति ।
शब्दार्थ—अन्ते = अन्त में। वराहस्य = सूअर के। अपृच्छत् = पूछा । अनन्तः = असीम ।
अर्थ—अन्त में, प्रह्लाद एक सूअर के पास गए । सूअर ने पूछा-बैकुण्ठ में क्या है ? प्रह्लाद बोला-वहाँ असीम आनन्द है।

वराहः पुनः अपृच्छत् सम भार्या पृच्छतु , अहं तु एकाकी गन्तुं न इच्छामि ।
शब्दार्थ—पुनः = फिर । अपृच्छत् = पूछा । मम = मेरी । भार्या = पत्नी । पृच्छतु = पूछे।
अर्थ—सूअर ने फिर पूछा-मेरी पत्नी को पूछे, मैं तो अकेले जाना नहीं चाहता हूँ।

तदा प्रहलादः अवदत् - तर्हि तान् बालकान् च आदाय चलतु ।
शब्दार्थ—बालकान् = लड़कों को। आदाय = लेकर । चलतु = चलें।
अर्थ—तब प्रह्लाद बोला-तो उन लड़कों को लेकर चलो।

वराहस्य पत्नी वैकुण्ठगमनप्रस्तावं श्रुत्वा पृष्टवती - किं तत्र अस्माभिः भोजन प्राप्यते ?
शब्दार्थ—पृष्टवती = पूछी। प्राप्यते = मिलेगा।
अर्थ—सूअर की पत्नी बैकुण्ठ जाने की बात सुनकर पूछती है—क्या वहाँ हमें भोजन मिल सकता है ?

प्रहलादः अवदत् - तत्र तु बुभुक्षा एव न भवति । अतः भोजनस्य समस्या नास्ति तत्र ।
शब्दार्थ—बुभुक्षा = भूख। यत्र = जहाँ ।
अर्थ—प्रह्लाद बोला-वहाँ तो भूख ही नहीं लगती। इसलिए वहाँ भोजन की समस्या उत्पन्न नहीं होती है।

तदा सूकरी अवदत् - यत्र बुभुक्षा न भवति तत्र गत्वा वयं रुग्णाः एव भवेम इति।
शब्दार्थ—गत्वा = जाकर । रुग्णाः = बीमार । भवेम = हो जाऊँगा।
अर्थ—तब सूकरी ने कहा-जहाँ भूख नहीं लगती, वहाँ जाकर हमलोग रुग्ण हो जाएँगे।

" तत्र कोऽपि कदापि रुग्णः न भवति " इति विवृतवान् प्रहलाद : ।
शब्दार्थ—विवृतवान् = बताया। कदापि = कभी।
अर्थ—वहाँ कोई भी बीमार नहीं होता, ऐसा प्रहलाद ने (उसे) बताया।

तदा सूकरी दृढस्वरेण अवदत् - यत्र अस्माभिः भोजनं न प्राप्येत तं देशं वयं गन्तं न इच्छामः " इति।
शब्दार्थ— दृढ़स्वरेण = दृढ़तापूर्ण आवाज में ।
अर्थ—तब सूकरी दृढ़तापूर्वक बोली-जहाँ हमें भोजन मिलना संभव नहीं है, उस जगह हम सब जाना नहीं चाहते हैं।

प्रहलादः निराशतां प्राप्य भगवतः समीपं गत्वा उक्तवान् - भगवन् ! सर्वेऽपि प्राणिनः स्वस्य एव कौटुम्बिकव्यापारे मग्नाः सन्ति । वैकुण्ठं गन्तुं कोऽपि उयुक्तः नास्ति " ।
शब्दार्थ— निराशतां = निराश होकर । कौटुम्बिक व्यापारे = परिवार के भरण-पोषण में। मग्नाः = व्यस्त, लीन।
अर्थ—प्रह्लाद निराश होकर भगवान के समीप जाकर बोला-हे प्रभु । संसार के सारे प्राणी अपने-अपने परिवार, के भरण-पोषण में लीन हैं। बैकुण्ठ जाने के लिए कोई भी उत्सुक (तैयार) नहीं हैं।

अभ्यासः
: प्रश्न एवं उनके उत्तर

प्रश्न 1. अनया कथया कः संदेशः 'प्राप्यते ?
उत्तर-अनया कथया इंदं संदेशः प्राप्यते यत् सांसारिक मोहपाशात् कारणात् जन्तवः वैकुण्ठस्य सुखं त्यजन्ति । अस्मात् सांसारिक मोहः महान् अवरोधः अस्ति।
प्रश्न 2. संसारस्य मोहः कीदृशः भवति ?
उत्तर-संसारस्य मोहः अति भयंकरः कष्टकारकः भवति।
प्रश्न 3. संसारस्य मोहः कथं वैकुण्ठस्य मार्गेऽपि बाधकः भवति ?
उत्तर-संसारस्य मोहः प्राप्य जनाः स्वस्य कौटुम्बिक व्यापार एव मग्नाः भवन्ति । तस्मात् कारणात् मोहः वैकुण्ठस्य मार्गे अपि. महान् बाधकः भवंति।